मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ३

संहिता

ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः ।
अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥

पदपाठः

ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः ।
अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥

सायणभाष्यम्

एषःछागः शृंगरहितोऽजः अश्वेन वाजिनाशीघ्रव्यापकेनाश्वेनसहपूष्णः पोषकस्याग्नेर्भागोभज- नीयः विश्वदेव्यः सर्वदेवार्हः अग्नेः सर्वदेवात्मकत्वात् तदर्हत्वेनसर्वदेवप्रियत्वं एवंविधोऽजः पुरः पुर- स्तान्नीयतेप्राप्यते यत् यस्मादेवंक्रियते तस्मात्प्रियंप्रीणयितारं पुरोडाशंपुरस्ताद्दातव्यमेनमजं त्वष्टा- सर्वस्योत्पादकोदेवः त्वष्टारूपाणिविकरोतीतिश्रुतेः । तूर्णव्यापकोऽग्निर्वाउभेत्वष्टुर्बिभ्यतुरित्युक्तत्वा- त् अहोरात्रेइतिवारणीइतिवेतियास्केनारणीबिभ्यतुरित्युक्तत्वात् अरणिसंबन्धोग्नेरेवेतिगम्यते अर्व- ताअरणवताश्वेनसहसौश्रवसाय देवानांशोभनान्नायतन्निमित्तं अभिजिन्वति प्रीतिहेतुकंकरोति ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः