मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् ६

संहिता

यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति ।
ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥

पदपाठः

यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति ।
ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥

सायणभाष्यम्

यूपव्रस्काः यूपार्हवृक्षस्यव्रश्चनकर्तारः छेत्तारः उत येच यूपवाहाः छिन्नस्यवोढारः येच चषालं यूपस्योपरिस्थाप्यंयूपाग्रभागंचषालमाहुः अश्वयूपाय अश्वबंधनयूपायतक्षतीति वचनव्यत्ययः तक्ष- णेनतनूकुर्वंति येचार्वते अरणवतेऽश्वायपचनं पाकसाधनं काष्ठभांडादिकं संभरंति साधुसंपादयंति उतो अपिच नोऽस्मत्संबंधिनां तेषामृत्विजामभिगूर्तिः संकल्पः सर्वथाकरणीयमितिबुद्धिरिन्वतुव्या- प्नोतु इन्वतिर्व्याप्तिवचनः इन्वति ननक्ष इतितद्वचनेषुपाठात् यद्वा तेषामभिगूर्तिर्नोऽस्मानिन्वतु यागं साधुपारं प्रापय्यफलेनयोजयत्वित्यर्थः ॥ ६ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः