मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् १३

संहिता

यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि ।
ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥

पदपाठः

यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि ।
ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥

सायणभाष्यम्

मांस्पचन्याः मांसपचन्याः पचतेरधिकरणेल्युड् मांसस्यपचियुड्घञोरित्यंतलोपः उखायाः स्था- ल्यायत् नीक्षणंपाकपरीक्षासाधनं काष्ठं तथा या यानि पात्राणि पूष्णोरसस्व्यक्वथितस्य आसेचनानि आसेचनसधनानि तथाऊष्मण्या ऊष्मनिवारणार्हाणिपात्राणि तथाचरूणांपात्राणां मांसपूर्णानां अ- पिधाना पिधानानितत्साधनानि तथा अंकाः हृदयाद्यबयवांकनसाधनाः वेतसशाखाः सूनाः अवदा- नसाधनाः स्वधित्यादयः एतमश्वंअश्वावयवं परिभूषति परितोभूषयंति स्वस्वव्यापारेणसाधयन्ती- त्यर्थः भूषअलंकारे भौवादिकः ॥ १३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः