मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ८

संहिता

अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥

पदपाठः

अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् ।
अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥

सायणभाष्यम्

इदानींकृत्स्नस्यलोकस्यापिमुख्यइतिप्रतिपादयति हेअर्वन् गमनशीलाश्व त्वात्वामनु अ नुसृत्य र- थोगच्छति ततःपुरतोश्वस्यगमनात् तथामयोमर्त्यः त्वात्वामनुगच्छति जात्येकवचनं अनुगावः गा- वोऽपित्वामुगच्छन्ति तथाकनीनां कन्यकानां स्त्रीणांभगोभाग्यं सौंदर्यं त्वद्भगमनु तथा व्रातासोव्रा- ताः संघात्मकाः अन्येअश्वसमूहाः वस्वादिदेवगणावात्वामनु अनुसृत्यतवसख्यमीयुः सखिभावंगच्छं- ति देवाऋत्विजःद्योतमानादेवावात्वामनुसृत्य तेवीर्यं वीरकर्म ममिरे स्तुत्यामांति अतःसर्वोऽपित्वा- मनुसरः त्वंतुसर्वस्यश्रेष्ठइत्यर्थः ॥ ८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२