मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ११

संहिता

तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥

पदपाठः

तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् ।
तव॑ । शृङ्गा॑णि । विऽस्थि॑ता । पु॒रु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥

सायणभाष्यम्

हेअर्वन् तवशरीरंपतयिष्णुपतनशीलंव्याप्तमित्यर्थः तथा तवचित्तंमनोवातइवध्रजीमान् शीघ्र- गमनवान् वायुरिवतद्वत् शीघ्रगमनानुकूलमित्यर्थः किंच तवश्रृंगाणिशिरसोनिर्गताः श्रृंगस्थानीयाः केशाः पुरुत्रापुरुषुबहुषुप्रदेशेषुविष्ठिता विष्ठितानि विविधंस्थितानि किंच तेएवारण्येषु जर्भुराणा- मनोहराणिपूर्यमाणानिवा एवंभूताः केशाश्चरन्ति यद्वा अत्राश्वस्यश्रृंगाभावात् तद्वदुन्नतानितेजां- सिपरिगृह्यन्ते ॥ ११ ॥ आश्वमेधिकेमध्यमेहनि अध्रिगुप्रैषे मानोमित्रइतिसूक्तानंतरमुपप्रागाच्छसनमितिद्वेऋचौशंसनीये सूत्रितंच—उपप्रागाच्छस्ज़नमितिद्वेइति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३