मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १

संहिता

अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता॑ मध्य॒मो अ॒स्त्यश्न॑ः ।
तृ॒तीयो॒ भ्राता॑ घृ॒तपृ॑ष्ठो अ॒स्यात्रा॑पश्यं वि॒श्पतिं॑ स॒प्तपु॑त्रम् ॥

पदपाठः

अ॒स्य । वा॒मस्य॑ । प॒लि॒तस्य॑ । होतुः॑ । तस्य॑ । भ्राता॑ । म॒ध्य॒मः । अ॒स्ति॒ । अश्नः॑ ।
तृ॒तीयः॑ । भ्राता॑ । घृ॒तऽपृ॑ष्ठः । अ॒स्य॒ । अत्र॑ । अ॒प॒श्य॒म् । वि॒श्पति॑म् । स॒प्तऽपु॑त्रम् ॥

सायणभाष्यम्

अत्रद्वितीयपादेतच्छब्दश्रुतेः प्रथमपादेप्रतिविशेषणंयोग्यक्रियार्थसंबद्धोयच्छब्दोऽध्याहार्यः यो- यंदिविद्योतते तस्यास्यवामस्य वननीयस्यसंभजनीयस्य आरोग्यार्थिभिःसर्वैः सेवनीयस्य पलितस्य- पालयितुः प्रकाशबृष्ट्यादिप्रदानेन पालकस्य तथायोयंदिविद्योतते तस्यास्यहोतुः ह्वातव्यस्य आ- ह्वानार्हस्यादित्यस्यमध्यमोमध्यमस्थानोमध्येभवोवायुरुच्यते आदित्याग्नीअपेक्ष्यास्यमध्यमत्वं स- चाश्नः सर्वत्रव्याप्तः नहिवायुरहितः कश्चित्प्रदेशोऽस्ति तादृशोभ्रातास्ति भ्रातृस्थानीयोभवति यथा- लोकेभ्रातापितृधनस्यभागंहरति तद्वन्मध्यस्थानमन्तरिक्षलोकंहरतीतिवा वृष्ट्यर्थंरश्मिभिराहृता- नांभौमानांहरणाद्वाभ्रातेत्युच्यते पित्र्येणधनेनस्वार्जितेनवाभर्तव्योभवतीतिभ्राता मध्यमोवायुर- पिवृष्ट्यर्थंरसिर्भक्तव्योभवति किञ्च घृतपृष्ठः घृतमाहुतिलक्षणंपृष्ठेयस्यतादृशोभ्रातातस्यतृतीयोस्ति- भवति त्रयाणांपुरणस्तृतीयः उक्तोभयापेक्षयातृतीयत्वं भ्रातृत्वंप्रतिपादितप्रकारेणात्रापिद्रष्टव्यं रात्रौसवितुस्तेजोभागस्यहरणाद्दिवास्वकीयतेजसोभागस्यतदर्थमेवभक्तव्यत्वाद्वाभ्रातृत्वं अत्रएषु- भ्रातृषुमध्येपुरोदेशेवाविश्पतिं विशांप्रजानांपालयितारं सप्तपुत्रं सर्पणरश्मिपुत्रोपेतं ऎतिहासिकपक्षे अदितिः पुत्रकामेतिप्रस्तुते मित्रवरुणादिष्वदितिपुत्रेष्वस्यादित्यस्यसप्तमपुत्रत्वं ईदृशंमहानुभावमा- दित्यमपश्यं अद्राक्षं भावनयात्मत्वेनसाक्षात्करोमीत्यर्थः तद्योहंसोसौयोसौसोहमितिश्रुतिः । एवं- वाअस्यवामस्य विश्वस्योद्गरितुः स्रष्टुरित्यर्थः पलितस्यपालयितुः स्वसृष्टजगत्पालनशीलस्य होतुरा- दातुः स्वस्मिन्संहर्तुरित्यर्थः परमेश्वरस्यसृष्ट्यादिकर्तृत्वं श्रुतिस्मृतिपुराणादिषुप्रसिद्धं तस्यतादृश- स्यपरमेश्वरस्यभ्रातातद्भागहारीतदंशभूतसूत्रात्मा मध्यमः सर्वत्रमध्येवर्तमानोऽस्तिजगद्धारकत्वेन- वर्तते सचाश्नः व्यापनशीलः वायुनावैगोतमसूत्रेणायंचलोकः परश्चलोकः सर्वाणिचभूतानिसंरब्धा- नीतिश्रुतेः । वक्ष्यमाणविराडपेक्षयावामध्यमत्वं किंच अस्यपरमेश्वरस्य तृतीयः घृतपृष्ठः घृतामित्यु- दकनाम तेनतत्कार्यंशरीरमुच्यते तदेवपृष्ठं स्पर्शनीयंसर्वस्यस्पर्शकंवायस्यसतादृशः पृष्ठंस्पृशतेरिति- निरुक्तम् । यद्वा प्रदीप्तपृष्ठः पृष्ठशब्दःक्रुत्स्नशरीरोपलक्षकः प्रकाशितशरीराभिमानीत्यर्थः नत्वयंसू- क्ष्मशरीराभिमानिसूत्रात्मवत्स्पर्शनाविषयोभवति अत्रएषुमध्येविश्पतिं विशां प्रजानांपतिंउपलक्ष- णमेतत् सर्वस्यपतिमित्यर्थः सर्वस्यपतिः सर्वस्येशानइतिश्रुतेः सप्तपुत्रं सप्तलोकाः पुत्रायस्यतादृशं स्वमाययासृष्टसर्वलोकमित्यर्थः अपश्यं पश्येयं साक्षात्करोमीत्यर्थः । अयमर्थः—स्वाधीनमायोजग- त्कारणभूतः परमेश्वरएकः ततउत्पन्नौ स्थूलसूक्ष्मशरीराभिमानिनौद्वौविराट् सूत्रात्मानौ तेषुमध्ये द्वयोः साक्षात्कारेणमोक्षाभावात् सृष्ट्यादिकारणंपरमेश्वरंज्ञेयत्वेनप्रसिद्धम् श्रवणमननादिसाधनेन- साक्षात्करोमीत्यर्थः एवमुत्तरत्राप्यध्यात्मप्रतयायोजयितुंशक्यं तथापिस्वरसत्वाभावाद्गंथविस्तर- भयाच्चनलिख्यते यत्रद्वासुपर्णेत्यादौ स्फुटमाध्यात्मिकोऽप्यर्थःप्रतीयते तत्रतत्रप्रतिपादयामः अयं- मन्त्रोयास्केनव्याख्यातः—अस्यदामस्यवननीयस्यपलितस्यपालयितुरित्यादिना तच्चव्याख्यानमत्रा- नुसन्धेयम् ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४