मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ९

संहिता

यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः ।
अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥

पदपाठः

यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि॑णायाः । अति॑ष्ठत् । गर्भः॑ । वृ॒ज॒नीषु॑ । अ॒न्तरिति॑ ।
अमी॑मेत् । व॒त्सः । अनु॑ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒ऽरू॒प्य॑म् । त्रि॒षु । योज॑नेषु ॥

सायणभाष्यम्

मातनिर्मीयन्तेऽस्मिन्भूतानीतिमाताद्यौः दक्षिणायाः अभिमतपूरणसमर्थायाः प्रुथिव्याः धुरिनि- र्वहणेयुक्तासीत् वर्षणायसमर्थाभूदित्यर्थः कथमितितदुच्यते—गर्भोगर्भस्थानीयउदकसंघोव्रुजनीषु उदकवत्सु मेघपङ्किष्वन्तर्मध्ये अतिष्ठत् तिष्ठति अनन्तरं वत्सः पुत्रस्थानीयः उदकसंघः त्रिषुयोज- नेषु मेघरश्मिवायुषुसंयुक्तेषुसत्सु अमीमेत् वर्षणसमयेशब्दयति अनन्तरं विश्वरूप्यं विश्वरूपवतीं- गामन्वपश्यत् अनुक्रमेणपश्यति वर्षतीत्यर्थः यद्वा त्रिषुयोजनेषुसत्सु वत्सोमेघोवर्षणायगांभूमिंप्र- त्यमीमेत् अनन्तरंसर्वोजनोऽनुक्रमेणविश्वरूप्यंसस्यादिभिर्नानारूपवतींभूमिमपश्यत् पश्यति ॥ ९ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५