मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १३

संहिता

पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ ।
तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥

पदपाठः

पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । तस्मि॑न् । आ । त॒स्थुः॒ । भुव॑नानि । विश्वा॑ ।
तस्य॑ । न । अक्षः॑ । त॒प्य॒ते॒ । भूरि॑ऽभारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । सऽना॑भिः ॥

सायणभाष्यम्

पञ्चारेपञ्चर्तुरूपैररैः युक्तेचक्रे संवत्सरात्मकेपरिवर्तमाने संवत्सरपरिवत्सरादिरूपेणपुनः पुनरावर्तमानेसति तस्मिन्कालचक्रे विश्वाभुवनानि सर्वाणिभूतजातानि आतस्थुः तिष्ठन्ति वर्तन्तइ- त्यर्थः किञ्च तस्यचक्रस्यमध्येवर्तमानः अक्षोभूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपिनतप्यते न- पीड्यते किञ्च सनादेव सनातनएवसनाभिः समाननाभिक्रः सर्वदैकरूपनाभिरसौनशीर्यते नभिद्यते यथालौकिकरथाक्षः भारेणभग्नोभवति अक्षघातेनचनाभिर्विवृताभवति तद्वदत्रनास्तीत्यर्थः ॥ १३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६