मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् १८

संहिता

अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण ।
क॒वी॒यमा॑न॒ः क इ॒ह प्र वो॑चद्दे॒वं मन॒ः कुतो॒ अधि॒ प्रजा॑तम् ॥

पदपाठः

अ॒वः । परे॑ण । पि॒तर॑म् । यः । अ॒स्य॒ । अ॒नु॒ऽवेद॑ । प॒रः । ए॒ना । अव॑रेण ।
क॒वि॒ऽयमा॑नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः॑ । कुतः॑ । अधि॑ । प्रऽजा॑तम् ॥

सायणभाष्यम्

अवः अवस्तात्स्थितं अस्यपितरंएतल्लोकपालकमग्निंपरेणादित्येनसहयोनुवेद अनुक्रमेणजानाति तथापरः परस्तात्स्थितमादित्यमस्यपितरंपालकंसोपीममेवलोकं वृष्ट्यादिनापालयति तादृशमादि- त्यं एनाअनेनावरेणाग्निनासहयोनुवेद अग्न्यादित्यौव्यतिहारेणोपास्ते यद्वा अभिभूतरजस्तमस्कौ उ- द्बुद्धसत्वौ अतएवस्वाधीनमायावेतौएकत्वेनयोऽधिगच्छति सतादृशःपुरुषः कवीयमानः कविवदा- चरन् क्रान्तदर्शित्वमात्मनः ख्यापयन् कइहास्मिँल्लोकेप्रवोचत् प्रब्रवीति किंच देवंद्योतमानंदेवविष- यमलौकिकंवामनः कुतः कस्माददृष्टविशेषादधि आधिक्येनप्रजातंउत्पन्नं उभयमपिदुर्लभमित्यर्थः ॥ १८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७