मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् २४

संहिता

गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् ।
वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणी॑ः ॥

पदपाठः

गा॒य॒त्रेण॑ । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । अ॒र्केण॑ । साम॑ । त्रैस्तु॑भेन । वा॒कम् ।
वा॒केन॑ । वा॒कम् । द्वि॒ऽपदा॑ । चतुः॑ऽपदा । अ॒क्षरे॑ण । मि॒म॒ते॒ । स॒प्त । वाणीः॑ ॥

सायणभाष्यम्

गायत्रेणगायत्रच्छन्दसाअर्कंअर्चनसाधनंमन्त्रंप्रतिमिमीते प्रत्येकंपरिच्छिनत्ति अर्कोमन्त्रोभवति- यदनेनार्चन्तीतिनिरुक्तम् । प्रतिमन्त्रंगायत्रेणच्छन्दसोपनिबद्धंकरोति उपलक्षणमेतदन्येषां छन्दसां यद्वेतरेषांछन्दसामस्यैवचतुश्चतुरक्षराधिक्येन तत्तच्छन्दोनिष्पत्तेरस्यप्रकृतित्वात् प्राधान्येनेदमुक्तम् अर्कशब्दोजात्यभिप्रायः सर्वान्मन्त्रान् गायत्र्यादिभिश्छन्दोभिःप्रतिमिमीतइत्यर्थः यद्वा प्रतिशब्दः समित्येतस्मिन्नर्थे छन्दोभिर्मन्त्रान्संमितंकरोतीत्यर्थः अर्केणसाम उक्तलक्षणेनमन्त्रेणसामगायत्ररथं- तरसंज्ञकंसामप्रतिमिमीते नन्वेकंसामतृचेक्रियतइतितिसृष्वेकंसामविहितं अर्तोर्कैःसामेतिवक्तव्यम् कथमुच्यतेअर्केणेति न वस्तुतएकंसामैकस्यामृच्यारूढं पश्चादन्योन्यां तदुत्तरयोर्गायतीत्यतिदेशतः प्राप्तंतिसृषुगानं अतएकवचनमविरुद्धम् त्रैष्टुभेनवाकं अत्रत्रिष्टुबुपादानमितरच्छन्दः प्रदर्शनार्थं अथ- वा अनादेशेसर्वत्रत्रिष्टुभोग्रहणात् प्राचुर्यामिप्रायेणेदमुक्तं त्रैष्टुभेनद्विवारत्रिवारवृत्तेनद्वृचतृचरूपं- वाकंवक्तव्यं एकैकंछन्दः प्रतिमिमीते अथवा वाकंसूक्तं एतावद्भिस्त्रिष्टुब्भिरुपनिबद्धमिदंसूक्तमिति- तादृशेनवाकेन वाकंवाकवर्गंअनुवाकंवा मिमीते कीदृशेनवाकेनेतिसविशेष्यते द्विपदाचतुष्पदा पाद- द्वयबद्धविराडादिछन्दोनिबद्धमन्त्ररूपेण चतुष्पदापादचतुष्टयोपेतेन अनुष्टुबादिमन्त्ररूपेणेति इयती- भिर्द्विपदाभिर्वर्गः इयतीभिश्चतुष्पदाभिरुपेतोवर्गः इयद्द्विपदरूपैर्वाकैः इयच्चतुष्पदरूपैर्वाकैश्चपरिमि- तोनुवाकइति । सूक्तपक्षेएतावद्भिः सूक्तैरयमनुवाकइति किञ्चाक्षरेण अक्षरेणैवसप्तवाणीः वागधिष्ठि- तानिसप्तच्छन्दांसिमिमते निर्माणंकुर्वन्ति अष्टाक्षरागयत्रीएकादशाक्षरात्रिष्टुप् द्वादशाक्षराजगतीति अक्षरैःपादाःपरिमीयन्ते परिमितैः पादैश्छन्दांसि ततःपादानांछंदसांअक्षरंमूलमिति तथा ऋग्वर्गसू- क्तानुवाकादीनांचाक्षरंमूलमित्यक्षरप्रशंसा ॥ २४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८