मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ३०

संहिता

अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् ।
जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥

पदपाठः

अ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या॑नाम् ।
जी॒वः । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभिः॑ । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः ॥

सायणभाष्यम्

अनेनदेहस्यासारताजीवस्यनित्यत्वंचप्रतिपाद्यते इदंशरीरंजीवावस्थायां अनत् प्राणनं कुर्वत् जीवंजीवनवत् तुरगातुस्वव्यापारायतूर्णगमनंसत् एजत् कंपमानंसत् शयेशेतेवर्तते पश्चात्प्राणाप- गमनानन्तरं उक्तविलक्षणंसत् ध्रुवमविचलितंसत् पस्त्यानां गृहाणांमध्ये अथैतेष्वाशेतेच स्थाणुव- त्तिष्ठति आकारःपूरणोवा जीवस्यवैलक्षण्यमाह—मृतस्यशरीरस्य संबन्धीजीवः मर्त्येनमरणधर्मकेन शरीरेणसयोनिः पूर्वंसमानोत्पत्तिस्थानः यद्यपिजीवस्यनजन्मास्ति तथापिवपुषस्तत्सद्भावात् तत्सं- बन्धेनोपचर्यते तदेवाह—अमर्त्यः अमरणस्वभावः जीवापेतंवावकिलेदंम्रियतेइतिश्रुतेः । उक्तस्वभा- वोजीवः स्वधाभिश्चरति पुत्रैःस्वधाकारपूर्वकदत्तैरन्नैश्चरति वर्ततइत्यर्थः ॥ ३० ॥ प्रवर्ग्येभिष्टवे अपश्यंगोपामित्येकाविनियुक्ता सूत्रितंच—अपश्यंगोपामनिपद्यमानं स्रक्वेद्रप्सस्ये- ति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९