मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ५२

संहिता

दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् ।
अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय॑न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ॥

पदपाठः

दि॒व्यम् । सु॒ऽप॒र्णम् । वा॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् ।
अ॒भी॒प॒तः । वृ॒ष्टिऽभिः॑ । त॒र्पय॑न्तम् । सर॑स्वन्तम् । अव॑से । जो॒ह॒वी॒मि॒ ॥

सायणभाष्यम्

दिव्यंदिविभवंसुपर्णंशोभनगमनं वायसंगमनशीलंबृहन्तंमहान्तं अपांगर्बंवृष्ट्युदकानांगर्भवदुत्पा- दकं ओषधीनां ओषधीर्दार्शतं दर्शनायदर्शयन्तमित्यर्थः यद्वा ओषधीनांगर्भंदर्शतमितिपृथग्विशेशणं किञ्च अभीपतः आनुकूल्येनवृष्टिभिस्तप्रयन्तं जगत्प्रीणयन्तं यद्वा अभीपतः अभिगमनवतः सलिला- धारान् तडागादीन् तर्पयन्तं अथवाअभिगन्ताहं सरस्वन्तंउदकवन्तं सरइत्युदकनाम कं देवंसूर्यंवा- अवसेरक्षणायजोहवीमि पुनःपुनराह्वयामि ॥ ५२ ॥

त्रयोविंशानुवाकेपञ्चदशसूक्तानि तत्रकयाशुभेतिपञ्चदशर्चंप्रथमंसूक्तंत्रैष्टुभं अत्रानुक्रमणिका—क- यापञ्चोनासंवादस्तृतीयाद्ययुजोमरुतांवाक्यं अन्त्यस्तृचोगस्त्यस्यच शिष्टा इन्द्रस्यैकादशीच मरुत्वां- स्त्विन्द्रोदेवतेति । अत्रैन्द्रागस्त्यमरुतांसंवादःप्रतिपाद्यते तत्रतृतीयापञ्चमीसप्तमीनवमीनांमरुद्वाक्य- रूपत्वात्तएवर्षयः यस्यवाक्यंसऋषिरितिन्यायात् अन्त्यतृचस्यागस्त्यवाक्यत्वात्सएवर्षिः शिष्टायुजः आद्याचैकादशीचेन्द्रस्यवाक्यं अतःसएवर्षिः अत्र यातेनोच्यतेसादेवतेतिसामान्यापवादेन कृत्स्नस्यम- रुत्वद्गुणकइन्द्रोदेवता संसवचातुर्विंशकयोर्मरुत्वतीयशस्त्रेनिविद्धानीयात् पूर्वंएतत्सूक्तं यदिपर्याया- न्मरुत्वतीयइतिखण्डयोःसूत्रितम्—कयाशुभेतिचमरुत्वतीयेपुरस्तात्सूक्तस्यशंसेदिति । आभिप्लवि- केपञ्चमेहनिमरुत्वतीयेएतदेवसूक्तं पञ्चमस्यकयाशुभायस्तिग्मश्रृंगेइतिमाध्यंदिनेइतिसूत्रितत्वात् । महाव्रते मरुत्वतीयशस्त्रे एतत्सूक्तं पञ्चमारण्यकेकयाशुभासवयसः सनीळामरुत्वाँइन्द्रवृषभोरणाये- त्युक्तत्वात् । विषुवति मरुत्वतीये एतदेवनिविद्धानीयं त्यंसुमेषंकयाशुभेतिचमरुत्वतीयमितिसूत्रि- तत्वात् । अस्य विनियोगंशौनकआह—ज्ञातिपुत्रसुहृन्मित्रैर्यश्चराज्यंचिकीर्षति । नित्यंसनियतोभू- त्वासूक्तंतुमनसाजपेत् । कयाशुभेतिपैशुन्यंकृत्वाचार्यन्रुपद्विजैः । श्रुत्वापररहस्यंतुगुरोरप्याहशौनक- इति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३