मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् ५

संहिता

अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑ः शुम्भ॑मानाः ।
महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥

पदपाठः

अतः॑ । व॒यम् । अ॒न्त॒मेभिः॑ । यु॒जा॒नाः । स्वऽक्ष॑त्रेभिः । त॒न्वः॑ । शुम्भ॑मानाः ।
महः॑ऽभिः । एता॑न् । उप॑ । यु॒ज्म॒हे॒ । नु । इन्द्र॑ । स्व॒धाम् । अनु॑ । हि । नः॒ । ब॒भूथ॑ ॥

सायणभाष्यम्

एवमुक्तामरुतस्तमेवंब्रुवते—हेइन्द्र त्वंयस्मादेवंकरोषि अतःकारणाद्वयमपिअन्तमेभिः अन्ति- कतमैरश्वैर्युजानाः युक्ताः सन्तः कीदृशैः स्वक्षत्रेभिः स्वायत्तबलैः किंच महोभिस्तेजोभिः तन्वःआत्म- शरीराणिशुंभमानाः दीपयन्तः हर्षंप्राप्नुवानाइत्यर्थः यद्वा महोभिः स्वमहत्त्वेनयुक्तावयंएतान् गम्तॄन् नु क्षिप्रमुपयुज्महे तवसाकंहविरादिस्वीकुर्मइत्यर्थः हेइन्द्र त्वमपिनोऽस्मत्संबन्धिस्वधांउदकं बलंवा अनुबभूथहि अस्मत्सृष्टोदकजन्यं हविरनुभवसिखलु हिशब्दः परस्परोपकार्योपकारिभावप्रसिद्धिद्यो- तनार्थः ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४