मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् ९

संहिता

अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः ।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥

पदपाठः

अनु॑त्तम् । आ । ते॒ । म॒घ॒ऽव॒न् । नकिः॑ । नु । न । त्वाऽवा॑न् । अ॒स्ति॒ । दे॒वता॑ । विदा॑नः ।
न । जाय॑मानः । नश॑ते । न । जा॒तः । यानि॑ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒ऽवृ॒द्ध॒ ॥

सायणभाष्यम्

इदानींतेमरुतोहर्षेण प्रत्याहुः आइतिस्मरणे स्मृतवन्तोव्यमिदानीं हेमघवर तेत्वया अनुत्तंअप्रेरि- तं नकिर्नु नैवास्ति नुनिश्चये त्वयायदुक्तं तत्सत्यमित्यर्थः हेदेवत्वावान् त्वत्सद्रुशोविदानः विद्वान् व्यत्ययेनशानच् जयोपायवेदितादेवतादेवोनास्ति किञ्च हेप्रवृद्ध अतिबल जायमानोजातोवाकश्चिद्दे- वोमर्त्योवानास्ति त्वंयानि वृत्रवधादीनिकरिष्या कर्तव्यानि कृणुहि कुरुषे तानि न नशते नव्याप्नोति नशतिर्व्याप्तिकर्मा नान्यस्त्वच्चेष्टितानुकार्येवेत्यर्थः ॥ ९ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५