मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् ९

संहिता

विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।
अंसे॒ष्वा व॒ः प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥

पदपाठः

विश्वा॑नि । भ॒द्रा । म॒रु॒तः॒ । रथे॑षु । वः॒ । मि॒थ॒स्पृध्या॑ऽइव । त॒वि॒षाणि॑ । आऽहि॑ता ।
अंसे॑षु । आ । वः॒ । प्रऽप॑थेषु । खा॒दयः॑ । अक्षः॑ । वः॒ । च॒क्रा । स॒मया॑ । वि । व॒वृ॒ते॒ ॥

सायणभाष्यम्

हेमरुतः वोरथेषुयुष्मत्संबन्धिरथेषुरंहणसाधनेषुविश्वनिभद्रा सर्वाणिकल्याणानिभोगयोग्यानि-द्रव्याणि अस्मभ्यंप्रदेयानिफलानिवा आहिताआहितानि तथावः अंसेष्वावः तदुपलक्षितभुजेष्वपि आकारोप्यर्थे मिथस्पृध्येव बलाधिक्यात् परस्परस्पर्धाविषयाणितविषाणिबलानिअंसेषूक्तलक्षणा- न्यायुधानिवाआहितानि किञ्च वःप्रपथेषु प्रगताः पन्थानोयेषुविश्रामस्थानेषुतानिप्रपथानि तेषु खादयःखाद्यानिभक्ष्याणि आहितानि यद्वा प्रगतःपन्थायैस्तेषुपादाग्रेषुखादयः स्थिराआभरणविशे- षाआहिताः किञ्च वःअक्षः युष्मत्संबन्धीरथाक्षः चक्रा तत्रोपनिबद्धानिचक्राणि समयासमीपेतेषां- परिसरेविववृते विशेषेणवर्तते नकदाचिदपिचक्रेषुसंलग्नोभवतीत्यर्थः यस्मादेवंदेवयजनगमनसाध- नानिसन्ति तस्मात् शीघ्रमागच्छध्वमित्यभिप्रायः ॥ ९ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः