मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६७, ऋक् १०

संहिता

व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।
व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥

पदपाठः

व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये ।
व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥

सायणभाष्यम्

अद्यास्मिन्दिनेवयंयष्टारइन्द्रस्यदेवस्यप्रेष्ठाः प्रियतमाः भवेम यद्वा प्रियतमवयमिन्द्रस्य महत्त्वं- वोचेमहि स्तोतुंसमर्थाभूयास्म किञ्च वयंश्वः परस्मिन्नपिदिनेसमर्थेसहमर्थामर्त्याऋत्विजोयस्मिन्स- मर्थोयज्ञः तस्मिन् सङ्ग्रामेवाइन्द्रस्यमहत्त्वंवोचेमहि किञ्च वयंपुरापूर्वस्मिन्नतीतेपिकालेमहिमहत् बलंनोस्मदर्थंवोचेमहि तथा द्यून् दिवसाननुप्रतिदिवसमित्यर्थः अतीते आगामिनिच दिवसे सर्वदा- वोचेमहि तत् तस्मादृभुक्षाः महन्नामैतत् ऋभुक्षाः उक्षाइतितन्नामसुपाठात् महानिन्द्रोनरांमनुष्या- णांमध्येनोस्माननुस्यात् अनुभवतु अनुकूलमभिमतप्रदोवाभवतु ॥ १० ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः