व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः ।
स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षणः॑ ॥
व॒व्रासः॑ । न । ये । स्व॒ऽजाः । स्वऽत॑वसः । इष॑म् । स्वः॑ । अ॒भि॒ऽजाय॑न्त । धूत॑यः ।
स॒ह॒स्रिया॑सः । अ॒पाम् । न । ऊ॒र्मयः॑ । आ॒सा । गावः॑ । वन्द्या॑सः । न । उ॒क्षणः॑ ॥
येमरुतोवव्रासोन वव्रिरितिरूपनाम रूपवन्तइव तेयथाप्रकृष्टालक्ष्यन्तेतद्वत् यद्वा अरूपाअपिस- रूपाइव स्वजाः स्वयमेवस्वस्माद्वाजायमानाः अनन्यहेतुकाइत्यर्थः धूतयः कम्पनशीलाः सन्तितेइषं- अन्नंहविर्लक्षणं अन्नसाधनंसस्यादिकंवा स्वः स्वर्गंचाभिजायन्त अभिलक्ष्यप्रादुर्भवन्ति तेदृष्टान्तमुखे- नश्रूयन्ते—अपांनोर्मयः उदकानामूर्मयइव सहस्रियासः सहस्रसंमिताः तथावंद्यासः बहुक्षीरादिप्रद- त्वेनस्तुत्यागावोन गावइव आसा समीपेएवौक्षणः वृष्ट्युदकस्यसेक्तारः तादृशामरुतः प्रादुर्भवन्ती- त्यन्वयः ॥ २ ॥