मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ४

संहिता

अव॒ स्वयु॑क्ता दि॒व आ वृथा॑ ययु॒रम॑र्त्या॒ः कश॑या चोदत॒ त्मना॑ ।
अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ॥

पदपाठः

अव॑ । स्वऽयु॑क्ताः । दि॒वः । आ । वृथा॑ । य॒युः॒ । अम॑र्त्याः । कश॑या । चो॒द॒त॒ । त्मना॑ ।
अ॒रे॒णवः॑ । तु॒वि॒ऽजा॒ताः । अ॒चु॒च्य॒वुः॒ । दृ॒ळ्हानि॑ । चि॒त् । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥

सायणभाष्यम्

एतेमरुतः स्वयुक्ताः स्वैर्युक्ताः परस्परंसंयुक्ताः स्वेनधनेनवा युक्ताः सन्तोदिवोद्युलोकाद्वृथा अनायासेनावाययुः अवाङ्मुखमागच्छन्ति हेअमर्त्यामरुतोयूयंत्मनाआत्मनास्वयमेवकशयावाङ्गा- मैतत् वाचास्तुतिरूपया चोदत प्रेरयत स्तोतुमितिशेषः तेचमरुतः अरेणवःअपापाः तुविजाताः बहुयज्ञेषु प्रादुर्भूताः भ्राजदृष्टयः दीप्ताः एवंभूताः सन्तोदृह्ळानिचित् दृढान्यपिपर्वतादीनिअचुच्यवुः च्यावयन्तिचालयन्ति ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः