मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् ९

संहिता

असू॑त॒ पृश्नि॑र्मह॒ते रणा॑य त्वे॒षम॒यासां॑ म॒रुता॒मनी॑कम् ।
ते स॑प्स॒रासो॑ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

पदपाठः

असू॑त । पृश्निः॑ । म॒ह॒ते । रणा॑य । त्वे॒षम् । अ॒यासा॑म् । म॒रुता॑म् । अनी॑कम् ।
ते । स॒प्स॒रासः॑ । अ॒ज॒न॒य॒न्त॒ । अभ्व॑म् । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥

सायणभाष्यम्

पृश्निर्मरुन्माता नानावर्णा पृश्नियैवैपयसोमरुतोजाताः पृश्नेःपुत्राउपमासइतिश्रुतेः । तामेवान्तरि- क्षदेवतां केचिदाहुः सादेवी त्वेषंदीप्तंअयासां गन्तॄणांमरुतामनीकंसमूहं एकोनपञ्चाशत्सख्याकमसूत उत्पादितवती किमर्थं महतेरणायसङ्ग्रामायमेघजयायेत्यर्थः तेचमरुतः सप्सरासः समानरूपाः हिं- सकावामेघानां अभ्वंमेघंजनयन्ति उत्पादितवन्तः आदित् अनन्तरमेव इषिरांसर्वैरिष्टव्यांस्वधामन्नं सस्यादिसमृद्धिलक्षणंपर्यपश्यन् परिपश्यन्तिसर्वेजनाः ॥ ९ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः