मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६९, ऋक् ७

संहिता

प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।
ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑रृणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑ः ॥

पदपाठः

प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः ।
ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥

सायणभाष्यम्

हेइन्द्र तेसंबन्धिनांघोराणांभयानकानांशब्दायमानानांवा एतानांएतवर्णानां अयासांअयमाना- नांगमनशीलानांमरुतांआयतां आगन्तॄणांमरुतांउपब्दिः उपगुर्वादिसमीपेगम्यतेज्ञायते उपपद्यतइति- वाउपब्दिः वाक् प्रतिशृण्वेश्रूयते कर्मणीकर्तृप्रत्ययः तएवविशेष्यन्ते—येमरुतोमर्त्यंमरणधर्माणंऊमैः स्वरक्षणैः उदकनिर्गमनसाधनैर्वापृतनायन्तंपृतनाआत्मनइच्छन्तंवैरिणंमेघंवा सर्गैः सृष्टैः स्वकीयप्र- हारविशेषैः पतयन्ति तेषामेवध्वनिःश्रूयतइत्यर्थः पातनेदृष्टान्तः—सर्गैः ऋणावानंन छन्दसीवनिपा- वितिवनिप् ऋणवन्तंअधमर्णमिव तंयथापीडयित्वातदीयंधनमपहरन्तितद्वत् एवंमहानुभावामरुत- स्तवानुगाइतीन्द्रस्यस्तुतिः ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः