मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७०, ऋक् १

संहिता

न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् ।
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥

पदपाठः

न । नू॒नम् । अस्ति॑ । नो इति॑ । श्वः । कः । तत् । वे॒द॒ । यत् । अद्भु॑तम् ।
अ॒न्यस्य॑ । चि॒त्तम् । अ॒भि । स॒म्ऽच॒रेण्य॑म् । उ॒त । आऽधी॑तम् । वि । न॒श्य॒ति॒ ॥

सायणभाष्यम्

परिदेवनप्रकारः प्रतिपाद्यते इन्द्रआह—अद्यतनंयदस्तितन्नूनमद्यनास्ति नूनमत्रविचिकित्सार्थे अत्राद्येतियद्यपिनास्ति तथाप्युत्तरवाक्येश्वइतिदर्शनादत्राद्येतिगम्यते तथाश्वोपिनूनंनोउशब्दोऽव- धारणे श्वस्तनमपिनैव नास्ति अद्ययथास्मदर्थंनिरुप्तमस्मभ्यंनास्तिकिल श्वःकथंलप्स्यतइतिभावः यदद्भुतंअन्यस्मैनिरुप्यान्यस्मैदत्तमितियदस्ति वैपरीप्यंतत्कोवेद यद्वा यदद्भुतं भाविकार्यंयदस्ति- तत्कोवेद अद्यश्वोवालभ्यतइतिआशानकार्येत्युक्तंभवति तदेवाह—अभिसञ्चरेण्यंसर्वतःसञ्चारि अन्य- स्यचित्तंमानसंकोवाजानातीतिशेषः उतअपिच आधीतंआध्यातंचिन्तितमपिविनश्यति किमुसकृ- त्स्मृतंनश्यतीति ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०