मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७०, ऋक् ४

संहिता

अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥

पदपाठः

अर॑म् । कृ॒ण्व॒न्तु॒ । वेदि॑म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः ।
तत्र॑ । अ॒मृत॑स्य । चेत॑नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥

सायणभाष्यम्

इदमिन्द्रवाक्यं अपरेग्स्त्यवाक्यमाहुः हेऋत्विजोयूयंअगस्त्योङ्गीकृतवान् तस्माद्वेदिमरंकृण्वन्तु कुर्वन्तु संमार्जनपर्युक्षणादिनापरिचरन्तु तथापुरः पुरस्तात् अग्निमाहवनीयादिकंसमिन्धतां इघ्मप्र- क्षेपेणप्रज्वालयन्तु तत्राग्नावमृतस्यामरणलक्षणस्यदेवत्वस्यचेतनंप्रज्ञापकंयज्ञं हेअगस्त्य तेत्वदीयंत्वं- चाहंचतनवावहै अगस्त्यवाक्यपक्षेशिष्टमविशिष्टं तत्र वेद्याममृतस्यतत्साधनस्य हविषश्चेतनंप्रज्ञाप- नमासादनंकुरुत किञ्च आवांपत्नीयजमानौ अध्वर्युयजमानौवा हेइन्द्र तेत्वदर्थंयज्ञंतनवावहै ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०