मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् ४

संहिता

अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा॑द्भि॒या म॑रुतो॒ रेज॑मानः ।
यु॒ष्मभ्यं॑ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता॑ नः ॥

पदपाठः

अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष॑माणः । इन्द्रा॑त् । भि॒या । म॒रु॒तः॒ । रेज॑मानः ।
यु॒ष्मभ्य॑म् । ह॒व्या । निऽशि॑तानि । आ॒स॒न् । तानि॑ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत॑ । नः॒ ॥

सायणभाष्यम्

हेमरुतः श्रृणुत अहं अस्मान् प्रसिद्धात्तविषात् बलवतइन्द्रात्तत्सकाशात् भियाभीत्याइषमाणाः पलायमानः पुरतःस्थातुमशक्तः तथा रेजमानः वेपमानोभवं ततश्चकिमायातमित्यतआह—यानि- युष्मभ्यंहव्याहवींषिनिशितानिसंस्कृतान्यासन् तानि तान्येव आरे चकृम दूरे क्रुतवन्तोवयं इन्द्रभ- यात् अतोनोस्मानपराधिनोमृळत मृळयत सुखयत ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११