मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् २

संहिता

अर्च॒द्वृषा॒ वृष॑भि॒ः स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् ।
प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥

पदपाठः

अर्च॑त् । वृषा॑ । वृष॑ऽभिः । स्वऽइदु॑हव्यैः । मृ॒गः । न । अश्नः॑ । अति॑ । यत् । जु॒गु॒र्यात् ।
प्र । म॒न्द॒युः । म॒नाम् । गू॒र्त॒ । होता॑ । भर॑ते । मर्यः॑ । मि॒थु॒ना । यज॑त्रः ॥

सायणभाष्यम्

वृषा हविषांवर्षितायंयजमानः स्वेदुहव्यैः स्वायत्तहविष्कैः यद्वा स्वयंप्राप्तं इदु उदकंहव्यं येषां- तादृशैः वृषभिर्वर्षकैः हविःप्रदातृभिः अध्वर्य्वादिभिः विशिष्टःसन् अर्चत् अर्चयतिइन्द्रं यद्वा वृषा- फलस्यवर्षितायः इन्द्रः उक्तलक्षणैरध्वर्य्वादिभिरर्च्यतेयद्यस्मादश्नोव्यापकः पानाद्यर्थंधावन् मृगोन हरिणादिरिव अयमिन्द्रः अश्नः अशनशीलःसन् अतिजुगुर्यात् अत्यर्थमुद्युक्तेहविर्भक्षणाययथामृगः क्षुत्पिपासार्दितः शीघ्रमुद्युङ्क्तेतथायमिन्द्रोपि यस्मादेवंतस्मादर्चति यद्वा यमिन्द्रोयत् यथा अश्नोमृ- गइवातिजुगुर्यात् गुर्यात् तथार्चतीत्यर्थः किञ्च हेगूर्तउद्गूर्णेन्द्रमनां मननं स्तोत्रमिच्छतांदेवानांमन्द- युः स्तुतियुक्तोमर्योहोतामानुषएतन्नमकऋत्विक् यजत्रोयागनिष्पादकः सन् मिथुनामिथुनानि युग्म- रूपाणियाज्यापुरोनुवाक्यादीनि मिथुनौवा जायापतिरूपःसन् प्रभरते प्रकर्षेणसंपादयति तस्मादर्च- यतीत्यर्थः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३