मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ९

संहिता

असा॑म॒ यथा॑ सुष॒खाय॑ एन स्वभि॒ष्टयो॑ न॒रां न शंसै॑ः ।
अस॒द्यथा॑ न॒ इन्द्रो॑ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ॥

पदपाठः

असा॑म । यथा॑ । सु॒ऽस॒खायः॑ । ए॒न॒ । सु॒ऽअ॒भि॒ष्टयः॑ । न॒राम् । न । शंसैः॑ ।
अस॑त् । यथा॑ । नः॒ । इन्द्रः॑ । व॒न्द॒ने॒ऽस्थाः । तु॒रः । न । कर्म॑ । नय॑मानः । उ॒क्था ॥

सायणभाष्यम्

हेएन इनःईश्वरेन्द्र यथासुसखायः शोभनत्वद्रूपसहायवन्तोऽसामभूयास्म किञ्च स्वभिष्टयः शोभ- नाभ्येषणाःशाभेनाभीष्टाश्चासाम किमिव नरांशंसैः नराणांराजादीनांशंसैःशांसनैरिवस्तुतिभिर्यथा- मनुष्याः शॊभनाभीष्टाभवन्तितद्वत् इदानींपरोक्षेणाह नोस्मभ्यमिन्द्रोवन्दनेष्ठाः अस्मत्स्तुतौवर्तमानः सन् तुरोन त्वरमाणइव नोस्माकंकर्मउक्थाउक्थैः शस्त्रैर्नयमानः फलंप्रापयन् स्तुत्यातुष्ट्ःसन् अस्म- दीयेनकर्मणाफलप्रापयितातथासत् भवेत् हेऋत्विजस्तथाकुरुतेतिशेषः ॥ ९ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४