मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् ३

संहिता

अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभि॑ः पुरुहूत नू॒नम् ।
रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तो॑ः ॥

पदपाठः

अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् ।
रक्षो॒ इति॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥

सायणभाष्यम्

हेइन्द्र शूरपत्नीः शूरैरक्षोभिः पालिताःवृतः वर्तन्तआस्वितिवृतः असुरपुरीः यद्वा शूरायजमाना- स्तैः पालिताः वृतोवेदिभूमीः अज गच्छ जेतुं तथा कृत्वाद्यांचनूनमवश्यमज किन्त्वमेकएव न हेपुरु- हूत बहुभिर्बहुधावा आहूतेन्द्र येभिर्मरुदादिभिर्नुगतोसितैः सहितःसन् तथाकृत्वाअशुषंआशोषयितारं अशान्तंवा तूर्वयाणंतूर्णगमनमग्निंवैद्युतंहोमाधारंवाग्निंरक्षस्वैव किमर्थं रक्षणमित्युच्यते दमेगृहेअपां- सिकर्माणिकुर्वन् वस्तोः वस्तुं यद्वा वासयितुंकारयितुमित्यर्थः यज्ञद्विट्सु हतेष्वग्नौसुस्थिरेसति या- गाद्यनुष्ठानपरःस्थास्यामीत्यर्थः रक्षणेदृष्टान्तः—सिंहोनसिंहइव सयथा स्वाश्रयभूतंवनंगजाद्युपद्र- वपरिहारेणरक्षतितद्वत् असुरपुरभङ्गगमनेवाद्रुष्टान्तः सिंहोयथानिर्भयोविरोधिमृगान् हन्तुंधाव- तितद्वत् ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६