मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् ५

संहिता

आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् ।
आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥

पदपाठः

आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् ।
आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥

सायणभाष्यम्

हेइन्द्रो सोम तवयस्यद्विबर्हिसः स्तोत्रहवीरूपद्विविधपरिवृढकर्मवतोयजमानस्य अर्केषु मन्त्रेषु- सानुषक् सानुषङ्गः सातत्यमसद्भवेत् तमावः तंयजमानंरक्षसितर्पयसिवा यद्वा कर्मणिषष्ठीयं द्वयोः स्थानयोः परिवृढंयमिन्द्रं हेइन्द्रो यदाअर्केषुसानुषक् असत् भवेः तदा आवः अरक्षः अतर्पयोवा तस्यैवेन्द्रस्यआजौसङ्ग्रामे हेसोम वाजिनंतथान्नवन्तंतमिन्द्रंवाजेषु बलेषुअन्नेषुवानिमित्तभूतेषुप्रावः प्रकर्षेणारक्षयः पानसमयेतप्रयित्वासङ्ग्रामसमयेबलवर्धनेनजयप्राप्तशत्रुधनतर्पणेनवाअरक्षइत्यर्थः ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९