मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७७, ऋक् ४

संहिता

अ॒यं य॒ज्ञो दे॑व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा॑ण्य॒यमि॑न्द्र॒ सोमः॑ ।
स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या॑हि॒ पिबा॑ नि॒षद्य॒ वि मु॑चा॒ हरी॑ इ॒ह ॥

पदपाठः

अ॒यम् । य॒ज्ञः । दे॒व॒ऽयाः । अ॒यम् । मि॒येधः॑ । इ॒मा । ब्रह्मा॑णि । अ॒यम् । इ॒न्द्र॒ । सोमः॑ ।
स्ती॒र्णम् । ब॒र्हिः । आ । तु । श॒क्र॒ । प्र । या॒हि॒ । पिब॑ । नि॒ऽसद्य॑ । वि । मु॒च॒ । हरी॒ इति॑ । इ॒ह ॥

सायणभाष्यम्

हेइन्द्र अयंयज्ञोदेवयाः देवानगच्छन्नवतितथायंयज्ञोमियेधः मेधः पशुः पशुर्वैमेधइतिहिश्रुतेः । इमाइमानिब्रह्माणिमन्त्राः अयंसुतः सोमः स्तीर्णंबर्हिः आसनायास्तृतादर्भाः एतेपदार्थास्त्वदुचिता- एवंसंपादिताः हेशक्रशकेन्द्र तुपुनः किमित्युक्ते आप्रयाहिप्रकर्षेणशीघ्रमागच्छ आगत्यचनिषद्यबर्हि- ष्युपविश्यपिबसोमं तदर्थं इहास्मिन्देवयजनेहरीअश्वौविमुच वियोजय छान्दसोनुमभावः ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०