मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् ३

संहिता

आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः ।
वृष्ण॑ः स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥

पदपाठः

आ । वा॒म् । रथः॑ । अ॒वनिः॑ । न । प्र॒वत्वा॑न् । सृ॒प्रऽव॑न्धुरः । सु॒वि॒ताय॑ । ग॒म्याः॒ ।
वृष्णः॑ । स्था॒ता॒रा॒ । मन॑सः । जवी॑यान् । अ॒ह॒म्ऽपू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥

सायणभाष्यम्

पूर्वमन्त्रेश्वव्याजेनाश्विनोरागमनमुक्तं अनेनर्थव्याजेनोच्यते हेधिष्णयाउन्नतस्थानार्हौ स्थातारा- स्वरथधिष्ठानौ वांयुवयोर्योरथोस्थिससुवितायशोभनफलायागम्याः अस्मद्यज्ञमागच्छतु पुरुषव्यत्य- यः कीदृशोरथइतिसविशेष्यते अवनिर्नप्रवत्वान् भूमिरिवात्यन्तविस्तारवान् सृप्रबन्धुरः विस्तीर्ण- पुरोभागः वृष्णः वर्षकस्याश्वस्य मनसोपिजवीयान् मनोवेगवानित्यर्थः अहंपूर्वः अहंकारपूर्वः मन- स्वीवात्युदारः यजतोयष्टव्यः ईदृशोरथआगच्छतु ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५