मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् ४

संहिता

इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भि॒ः स्वैः ।
जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ॑हे ॥

पदपाठः

इ॒हऽइ॑ह । जा॒ता । सम् । अ॒वा॒व॒शी॒ता॒म् । अ॒रे॒पसा॑ । त॒न्वा॑ । नाम॑ऽभिः । स्वैः ।
जि॒ष्णुः । वा॒म् । अ॒न्यः । सुऽम॑खस्य । सू॒रिः । दि॒वः । अ॒न्यः । सु॒ऽभगः॑ । पु॒त्रः । ऊ॒हे॒ ॥

सायणभाष्यम्

हेअश्विनौ युवांसमवावशीतांसहसम्यग्वा पुनःपुनः सूयेथेकामयेथांवायज्ञं पुरुषव्यत्यय कीदृशौ- युवां इहेहजाता उभाभ्यमिहशब्दाभ्यांमध्यमोत्तमस्थानेउच्येते तयोः भूतौसूर्याचन्द्रमसावितियावत् सूर्याचन्द्रमसावित्येकइतिनिरुक्तम् । अरेपसाअपापौ आथर्वणस्यगुरोः शिरश्छेदनादिनापापलेपरहि- तावितिभावः आथर्वणायाश्विनादधीचेश्व्यंशिरःप्रत्यैरयतमित्यादिमन्त्रद्वर्णात् । केनहेतुनेतिउच्यते- तन्वाशरीरेणशरीरसौन्दर्येणनिमित्तेन स्वर्नौमभिः स्वीयैर्माहात्म्यविशिष्टैः अश्विनौ नासत्यावित्या- दिभिरपिरमणीयशरीरवत्त्वान्महिमोपेतनामवत्त्वाच्चहेतोः संस्तूयेथेइत्यर्थः यद्वा अरेपसातन्वेतियो- ज्यं उक्तप्रकारेणगुरुशिरश्छेदादप्यपापेनशरीरेण तादृङ् महत्त्वख्यापनेनेतियावत् किञ्च वांयुवयोर- न्यएकोमध्यमस्यान्तरिक्षस्यपुत्रः पुत्रस्थानीयः सोमः जिष्णुर्जयशीलः सुमखस्यशोभनस्ययज्ञस्य सू- रिःप्रेरयितासन् ऊहे उत्तमस्थानोदिवोद्युलोकस्यपुत्रः पुत्रस्थानीयआदित्यः सुभगः शोभनश्मिरूपध- नः ऊहेवहतिकृत्स्नं एवंपृथक् जगन्निर्वाहकौमहानुभावौयुवांसहस्तूयेथे अत्रनिरुक्तम्—इहचेहच- जातौसंस्तूयेथेपापेनालिप्यमानयातन्वा नामभिश्चस्वैर्जिष्णुर्वामन्यःसुमहतोबलस्येरयितामध्यमो- दिवोन्यः सुभगः पुत्रऊह्यतआदित्यइति ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५