मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् ५

संहिता

प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूप॒ः सद॑नानि गम्याः ।
हरी॑ अ॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॑र्म॒थ्ना रजां॑स्यश्विना॒ वि घोषै॑ः ॥

पदपाठः

प्र । वा॒म् । नि॒ऽचे॒रुः । क॒कु॒हः । वशा॑न् । अनु॑ । पि॒शङ्ग॑ऽरूपः । सद॑नानि । ग॒म्याः॒ ।
हरी॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । म॒थ्ना । रजां॑सि । अ॒श्वि॒ना॒ । वि । घोषैः॑ ॥

सायणभाष्यम्

हेअश्विना अश्विनौ वांयुवयोर्मध्ये अन्यस्यैकस्यककुहः श्रेष्ठः पिशङ्गरूपः हिरण्यरूपः पीतव- र्णोवा बहुभिरक्षाद्यवयवैः निरूप्यमाणोवारथोवशान् अनुकामाननुलक्ष्ययथाकामं अस्म द्यज्ञाग- मनेच्छयेत्यर्थः यद्वा वशान् स्वाधीनाः ककुहः दिशः दिगन्तरालानुक्रमेणनीचैरुच्चैश्चरन् स्वस्था- नाद्देवयजनाभिमुखंगच्छन् सदनानि अस्मद्याग्गृहाणिप्रगम्याः प्रकर्षेणगच्छतु पुरुषव्यत्ययः अत्रय- द्यप्यन्यस्येतिनोक्तं तथप्युत्तरवाक्येतथोक्तत्वादत्रापिलभ्यते अन्यस्ययुवयोरन्यतमस्यहरी अश्वौ रजांसिलोकाः अत्रलोकशब्दोजनवाचकः तेयजमानरूपाजनाइत्यर्थः तेचमश्रामथनेनालोडनेन- निष्पादितैर्वाजैरन्नैरामिक्षादिरूपैर्घोषैः स्तुतिभिश्च आह्वानादिशब्दविशिष्टैर्वापीपयन्त आप्या- ययन्ति ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५