मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् १

संहिता

अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः ।
धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥

पदपाठः

अभू॑त् । इ॒दम् । व॒युन॑म् । ओ इति॑ । सु । भू॒ष॒त॒ । रथः॑ । वृष॑ण्ऽवान् । मद॑त । म॒नी॒षि॒णः॒ ।
धि॒य॒म्ऽजि॒न्वा । धिष्ण्या॑ । वि॒श्पला॑वसू॒ इति॑ । दि॒वः । नपा॑ता । सु॒ऽकृते॑ । शुचि॑ऽव्रता ॥

सायणभाष्यम्

हेमनीषिणः मनस्विनोमेधाविनऋत्विजः अस्माकमिदंवयुनंप्रज्ञानमभूत् उत्पन्नं कीदृशंतदिति उच्यते व्रुषण्वान् अभिमतवर्षणवान् रथः अश्विनोःसंबन्धीगमनसाधनोरथः आगतइतिशेषः तत्स्था- वश्विनौओषुभूषत ओइतिनिपातद्वयसमुदायात्मकैकोनिपातः सुष्ठ्वाभूषत अभिमुखाभवतस्तोतुं तादृशौमहानुभावावश्विनौमदत अन्तर्भावितण्यर्थोयं मादयतसंभावयत अश्विनौविशेष्येते सुकृते सुष्ठुकृतवते मह्यंधियंजिन्वा कर्मणोबुद्धेर्वाप्रीणयितारौधिष्णयाधिषणार्हौस्तुत्यौ विश्वलावसू विशां- प्रजानां अस्माकंपालयितृधनौविश्पलाख्यायाः छिन्नजङ्घायाः हिरण्मयजंघाप्रदानेनतथाभूतौ स- द्योजंघामायसींविश्पलायाइत्यादिनिगमः । दिवः आदित्यस्यनपाता नप्तारौ नपातयितारौवा शुचिव्रता दीप्तकर्माणौ ईदृशावश्विनौमदत ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७