मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ६

संहिता

अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॒॑न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् ।
चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या॑मिषि॒ताः पा॑रयन्ति ॥

पदपाठः

अव॑ऽविद्धम् । तौ॒ग्र्यम् । अ॒प्ऽसु । अ॒न्तः । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्रऽवि॑द्धम् ।
चत॑स्रः । नावः॑ । जठ॑लस्य । जुष्टाः॑ । उत् । अ॒श्विऽभ्या॑म् । इ॒षि॒ताः । पा॒र॒य॒न्ति॒ ॥

सायणभाष्यम्

अप्स्वन्तर्मध्येअवविद्धंअवस्ताच्छत्रुभिःपातितं अनारंभणेआलंभनरहिते तमसितमोवत्तमः दृष्टि- श्वासादिप्रतिबन्धकेजलमध्येप्रविद्धप्रकर्षेणपीडितंतौग्र्यंभुज्युंजठलस्यजठरस्यजठरवदुदकधारकस्य- मध्येजुष्टाः सेविताः यद्वा कर्मणिषष्ठी जठरंप्राप्ताः अन्तर्जलंप्रविष्टाः अश्विभ्यामिषिताः चतस्रोनाव- उत्पारयन्ति ऊर्ध्वंप्रापयन्ति ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८