मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ८

संहिता

तद्वां॑ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना॑स उ॒चथ॒मवो॑चन् ।
अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

तत् । वा॒म् । न॒रा॒ । ना॒स॒त्यौ॒ । अनु॑ । स्या॒त् । यत् । वा॒म् । माना॑सः । उ॒चथ॑म् । अवो॑चन् ।
अ॒स्मात् । अ॒द्य । सद॑सः । सो॒म्यात् । आ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेनरा नेतारौकर्मणोनराकारौवा हेनासत्या असत्यरहितौसत्यफलौवा वांयुवांतत्तादृशं स्तोत्रं- अनुस्यात् अनुकूलंभवतु अनुभवतुवा वांतदित्युक्तंयदित्याह वांप्रतिमानासः पूजावन्तोस्मदीयाहो- त्रादयोयत् उचथंस्तोत्रमवोचन् अकुर्वन् तद्वामनुष्यात् हेअश्विनौ अद्यास्मिन्प्रधानयागदिने अस्मा- दस्माभिः क्रियमाणात् सदसःसंबन्धिनः सोम्यात् सोमयागसंपादकात् आइत्यप्यर्थे अस्माभिर्यजमा- नैरद्यक्रियमाणादपिस्तोत्रात् प्रीणयतमिति विद्यामेतिगतम् ॥ ८ ॥

तंयुञ्चाथामितिषळृचंचतुर्थंसूक्तंत्रैष्टुभमागस्त्यंआश्विनं अनुक्रमणिका—तंयुञ्चाथांषट् ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८