मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८३, ऋक् ६

संहिता

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेअश्विनौ युवयोःप्रसादादस्यतमसः तमनहेतोः श्रेयःप्रतिबन्धरूपस्यदुःखस्यपारंपर्यन्तभूमिं अतारिष्म उत्तीर्णाःस्मः हेअश्विनौ वांप्रतिस्तोमः स्तोत्रं अधायि अकारीत्यर्थः युवांदेवयानैर्देवग- न्तव्यैर्मार्गैरिहास्मद्यज्ञे आयातं आगच्छतं शिष्टोव्याख्यातः ॥ ६ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेणसायणा- चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक्संहिताभाष्येद्वितीयाष्टकेचतुर्थोध्यायः ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९