मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८४, ऋक् २

संहिता

अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता ।
श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑ः ॥

पदपाठः

अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता ।
श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥

सायणभाष्यम्

हेवृषणा कामानांवर्षकावश्विनौ युवां अस्मेउ अस्मास्वेवसुमादयेथां सुष्ठुतृप्यतं अस्मभ्यं तर्पयत- मभिमतम् तथपणीन् वणिजोलुब्धकानयष्टृन् उत् उन्मूल्यहतंनाशयतम् कीदृशौयुवां ऊर्म्यारात्रिना- मितत् रात्रौमदन्ता माद्यन्तौ यद्वोर्मिरितिसोमनाम ऊर्मिर्यस्तेपवित्रआइत्यादिषुतथाप्रयोगात् अस्म- दीयेनसोमेनमदन्तौतादृशौयुवांमेममाच्छोक्तिभिराभिमुख्यकरैर्निर्मलवेदवाक्यैरचिताः मतीनां कर्म- णिषष्ठी मननसाधनाः स्तुतीःकर्णैराकर्णनसाधनैः श्रोत्रैः श्रुतंश्रृणुतं हेनरा नेतारौयुवांखलु एष्टा अन्वे- ष्टारावस्मत्स्तुतीनांतथाचनिचेतारालब्धानांतासांसञ्चयकर्तारौ निरित्येषसमित्येतस्यस्थाने यस्मादे- वंविधौतस्माच्छृणुतमिति ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः