मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८४, ऋक् ४

संहिता

अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।
अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥

पदपाठः

अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः ।
अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥

सायणभाष्यम्

हेमाध्वी मधुपूर्णपात्रयुक्तौअश्विनौ वांयुवयोःसंबन्धिनीसाप्रसिद्धारातिर्दानमस्मेअस्माकमस्तुभ- वतु तदर्थंमान्यस्यमाननीयस्यकारोः स्तोतुरगस्त्यस्यस्तोमंस्तुतिंहिनोतंप्रीणयतं हेसुदानूशोभनफल- दानौ वांयुवांश्रवस्याकीर्तेरन्नस्यवाइच्छयायत् यस्मात् सुवीर्याययजमानाय शोभनबलायवा चर्षण- योमनुष्माऋत्विग्रूपाः अनुमदन्ति अनुक्रमेणमाद्यन्तियुवाभ्यांसहस्वयंवा ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः