मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८४, ऋक् ५

संहिता

ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति ।
या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥

पदपाठः

ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति ।
या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥

सायणभाष्यम्

हेअश्विनौ हेमघवानाहविर्लक्षणान्नवन्तौ वांयुवाभ्यांएषस्तोमः स्तोत्रंसुवृक्तिसुष्ठुपापवजनं यथा- भवतितथा यद्वासुसमासि अकारिकृतः कीदृशोयंमानेभिर्मानैः हविः प्रदानरूपैः सहितः हेनासत्या- असत्यरहितौयुवां अगस्त्येएतन्नाम्निमहर्षौमयिमदन्तामाद्यन्तौ सन्तौ वर्तिर्गृहंयज्ञसंबन्धियातंप्राप्नुतं किमर्थंतनयायपुत्रादिलाभाय त्मनेआत्मनेचहिताय ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः