मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८४, ऋक् ६

संहिता

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

अतारिष्मेतिषष्ठी व्याख्याता ॥ ६ ॥

कतरापूर्वेतिएकादशर्चंषष्ठंसूक्तं द्यावापृथिवीदेवताकं अगस्त्यंत्रैष्टुभं कतरैकादश द्यावापृथिवीय- मित्यनुक्रान्तम् आभिप्लविकेषष्ठेहनिवैश्वदेवशस्त्रेद्यावापृथिव्यनिविद्धानमिदं तृतीयस्येतिखण्डेसूत्रि- तम्—कतरापूर्वेषासानक्तेतिवैश्वदेवमिति महाव्रतेपिवैश्वदेवशस्त्रेइदमेवद्यावापृथिव्यनिविद्धानं उत्त- मादाभिप्लविकात्तृतीयसवनमित्यतिदेशात् ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः