मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ३

संहिता

अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् ।
तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

पदपाठः

अ॒ने॒हः । दा॒त्रम् । अदि॑तेः । अ॒न॒र्वम् । हु॒वे । स्वः॑ऽवत् । अ॒व॒धम् । नम॑स्वत् ।
तत् । रो॒द॒सी॒ इति॑ । ज॒न॒य॒त॒म् । ज॒रि॒त्रे । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥

सायणभाष्यम्

अदितेः एतदन्तरिक्षस्याप्युपलक्षणं अखण्डनीयायाः पृथिव्यास्तादृशस्यान्तरिक्षस्य चसंबन्धिदा- त्रंधनंहुवे आह्वयामि स्पृहयामीत्यर्थः कीदृशंतद्धनं अनेहः अपापंदुः खरहितंसुस्वात्मकं अनर्वं अनर- णं अक्षीणमित्यर्थः स्वर्वत् फलभूतेनस्वर्गेणतद्वत् अवधं अहिंसितं नमस्वत् अन्नवत् ईदृशंधनंहुवे तद- स्माभिःकांक्षितंउक्तलक्षणंधनं हेरोदसी द्यावापृथिव्यौ जरित्रेस्तोत्रेयजमानायजनयतंउत्पादयतं द्या- वेत्यादिव्याख्यातम् ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः