मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ४

संहिता

अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे ।
उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

पदपाठः

अत॑प्यमाने॒ इति॑ । अव॑सा । अव॑न्ती॒ इति॑ । अनु॑ । स्या॒म॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ।
उ॒भे इति॑ । दे॒वाना॑म् । उ॒भये॑भिः । अह्ना॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥

सायणभाष्यम्

अवसास्वतोधिकेनकेनचित् कृतेन अवनेनसमृद्ध्या अतप्यमाने अनीश्वरे तपऎश्वर्यकर्मणइदंरूपम् यद्वाअतप्यमाने अन्यैरपीड्यमाने अवसा अन्नेन अवन्तीतर्पयन्त्यौदेवपुत्रे देवाः व्यवहर्तारोमनुष्याः पुत्रस्थानीयाययोः तादृश्यौलोकद्वयस्थामनुष्यादेवाश्चतदुपजीव्यत्वात्पुत्राइत्युच्यन्ते ईदृश्यौ उभेरो- दसीद्यावापृथिव्यौदेवानामह्नां एतद्रात्रेरप्युपलक्षणम् द्योतमानानामह्नांरात्रीणांचसंबन्धिभिःउभ- येभिरुभयविधैः शीतोष्णादिरूपैर्विलक्षणैर्धनैर्निमित्तभूतैः तेषांलाभायेत्यर्थः तदर्थंयुवां अनुष्याम अनुभवेम शिष्टोव्याख्यातः ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः