मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ११

संहिता

इ॒दं द्या॑वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा॑म् ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

इ॒दम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । स॒त्यम् । अ॒स्तु॒ । पितः॑ । मातः॑ । यत् । इ॒ह । उ॒प॒ऽब्रु॒वे । वा॒म् ।
भू॒तम् । दे॒वाना॑म् । अ॒व॒मे इति॑ । अवः॑ऽभिः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेद्यावापृथिवी द्यावापृथिव्यौ इदमस्माभिः क्रियमाणंस्तोत्रंसत्यमस्तु अवितथंभवतु फलवद्भव- त्वित्यर्थः इदमित्युक्तंकिंतदित्याह—हेपितर्द्यौः हेमातः पृथिवि वांयुवांप्रतिइहास्मिन्यज्ञेयत्स्तोत्रमु- पब्रुवे उपेत्यब्रवीमि तत्सत्यमस्तु देवानांस्तोतॄणामस्माकं अवमेअन्तिकनामैतत् नित्यसंनिहितेयुवां अवोभिः तर्पणैर्युक्तेभूतंभवतम् अवशिष्टंगतम् ॥ ११ ॥

आनइळाभिरितिसप्तमंसूक्तमेकादशर्चंआग्स्त्यंत्रैष्टुभंवैश्वदेवं आनोवैश्वदेवमित्यनुक्रान्तम् विनियो- गोलैङ्गिकः ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः