मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् १

संहिता

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

पदपाठः

अग्ने॑ । नय॑ । सु॒ऽपथा॑ । रा॒ये । अ॒स्मान् । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् ।
यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः॑ । भूयि॑ष्ठाम् । ते॒ । नमः॑ऽउक्तिम् । वि॒धे॒म॒ ॥

सायणभाष्यम्

हेअग्ने अङ्गनादिगुणविशिष्ट देवद्योतमान विश्वानिवयुनानिसर्वाणिप्रज्ञानानि अनेनैतदनुष्ठितमि- दंप्रायणीयमितियदेतत् ज्ञानमस्ति तद्विद्वानित्यर्थः यतोविद्वन् अतस्त्वमस्मान्सुपथा शोभनेनमार्गेण रायेगन्तव्यायस्वर्गादिधनाय द्वितीयार्थेवाचतुर्थी प्रापणीयंरायंप्रतिनय तदर्थं जुहुराणंकुटिलकार्येनः पापंफलप्रतिबन्धरूपमस्मत् अस्मत्तोयुयोधिपृथक्कुरु तेतववयंभूयिष्ठांअतिप्रवृद्धांनमउक्तिंनमस्का- रोक्तिंस्तुतिंविधेम परिचरेम कुर्मः ॥ १ ॥ आयुष्कामेष्ट्यां अग्नेत्वंपारयेतिद्वेस्विष्टकृतोयाज्ये पाहिनइतिचतुर्थीअनुवाक्या पाहिनोअग्नेपायु- भिरजस्रैरग्नेत्वंपारयानव्योअस्मानितिसंयाज्येइतिसूत्रितम् एतेएवस्वस्त्ययन्यामपिसंयाज्येइतिसू- त्रितत्वात् ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०