मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् २

संहिता

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥

पदपाठः

अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

सायणभाष्यम्

हेअग्ने त्वंनव्योनवतरः स्तुत्योवात्वमस्मान् यागानुष्ठातॄन् पारय कर्मसमापय्यातिपारय अति- क्रामय केनसाधनेन स्वस्तिभिः अस्तिरभिपूजितःसुशब्दःशोभनवचनः अत्यन्तंपूजितैर्यज्ञादिसाधनैः कानिविश्वासर्वाणिदुर्गाणिदुर्गमनानिपापानिअनतिक्रमणीयानि दुरिताख्यानिअतिपारय किञ्च नो- स्माकंपृथुतरापूश्चपुर्यपिभवत्वितिशेषः चशब्दोवक्ष्यमाणेनसहसमुच्चयार्थः पूरितिजात्येकवचनं पुरा- ण्यपिभवंत्वित्यर्थः तथानोस्माकंउर्वीपृथ्व्यपिबहुलासस्यादिनाबहुतराभवतु त्वंतुतोकायअपत्याय तनयायपुत्राय तोकशब्दोपत्यसामान्यवचनः तनयशब्दःपुत्रवचनः शंसुखंयोर्मिश्रयिताभव यद्वारो- गाणांशमनंभयानांचभव कुर्वित्यर्थः ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०