मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ३

संहिता

अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यम॑न्त कृ॒ष्टीः ।
पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥

पदपाठः

अग्ने॑ । त्वम् । अ॒स्मत् । यु॒यो॒धि॒ । अमी॑वाः । अन॑ग्निऽत्राः । अ॒भि । अम॑न्त । कृ॒ष्टीः ।
पुनः॑ । अ॒स्मभ्य॑म् । सु॒वि॒ताय॑ । दे॒व॒ । क्षाम् । विश्वे॑भिः । अ॒मृते॑भिः । य॒ज॒त्र॒ ॥

सायणभाष्यम्

हेअग्नेत्वंअमीवाः रोगान् अस्मत् अस्मत्तोयुयोधि व्यावर्तय याअनग्नित्राः अग्निनाअपालिताः कृ- ष्टिः प्रजाः अभ्यमन्तअभिमिमते हिंसंतिअस्मान् यच्छब्दाध्याहारादनिघातः तायुयोधियुद्धतोवियो- जयः यद्वा ताः अनग्नित्राः पापिन्यः कृष्टयः प्रजाः अभ्यमन्त त्वयाभ्यमितुंअभितोरोगैः प्रापयितुमर्ह- न्ति वयंतुनतादृशाः अतोस्मत्तोवियोजयेत्यर्थः नकेवलंवियोगमात्रं अपितुपुनःपुनरिदंकर्तव्यं अस्म- भ्यंअस्मदर्थंसुवितायशोभनफलाय हेयजत्रयष्टव्यदेवद्योतमानाग्ने विश्वेभिरमृतेभिःसर्वैरमरणधर्मभिः अन्यैर्यष्टव्यैर्देवैः सह क्षांपृथिवीदेवयजनलक्षणामागच्छेतिशेषः ॥ ३ ॥ पाहिनइत्यस्याविनियोगद्वयमग्नेत्वंपारयेत्यत्रोक्तं तथाग्नेयपशावेषैवहविषोनुवाक्या तथाचसूत्रि- तं—पाहिनोअग्नेपायुभिरस्रैः प्रवः शुक्रायभानवेभरध्वमिति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०