मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ५

संहिता

मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।
मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥

पदपाठः

मा । नः॒ । अ॒ग्ने॒ । अव॑ । सृ॒जः॒ । अ॒घाय॑ । अ॒वि॒ष्यवे॑ । रि॒पवे॑ । दु॒च्छुना॑यै ।
मा । द॒त्वते॑ । दश॑ते । मा । अ॒दते॑ । नः॒ । मा । रिष॑ते । स॒ह॒सा॒ऽव॒न् । परा॑ । दाः॒ ॥

सायणभाष्यम्

हेअग्ने नोस्मान् अघायहिंसकायाविष्यवे अविष्यतिरत्तिकर्मा भक्षणेच्छवे दुच्छुनायै शुनंसुखंदु- ष्टसुखकारिणे दुःखकारिणइत्यर्थः तस्मैरिपवेमावसृजः मात्याक्षीः तदधीनं माकुर्वित्यर्थः तथानो- स्मान्दत्वते दंतवते दशतेखादते सर्पादयोमावसृजः तथानोस्मान् अदतेअदंतकायश्रृङ्गादिभिर्घातिने नावसृजथः तथारिषतेहिंसकायतस्करराक्षसादये हेसहसावन् सहस्विन् मपरादाः पराभूतंमादेहि स- र्वथानदेहीत्यर्थः ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०