मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८९, ऋक् ८

संहिता

अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।
व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

अवो॑चाम । नि॒ऽवच॑नानि । अ॒स्मि॒न् । मान॑स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ ।
व॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । स॒ने॒म॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

वयंअस्मिन्नग्नौनिवचनानिनियमपूर्वकाणिवचांसिस्तोत्ररूपाणिअवोचामब्रूमः अग्निर्विशेष्यते मानस्यसूनुः मीयतइतिमानोमन्त्रः तस्यसूनुरग्निः मन्त्रेणोत्पाद्यमानत्वात् सप्तम्यर्थेप्रथमा मानस्य- सूनौ सहसानेशत्रूणामभिभवितरिअग्नौअवोचाम वयमेभिरृषिभिरतीन्द्रियार्थप्रकाशकैर्मन्त्रैःसाधनैः सहस्रमपरिमितंधनं सनेम संभजेमहि विद्यामेतिगतम् ॥ ८ ॥

अनर्वाणमित्यष्टर्चमेकादशंसूक्तमागस्त्यंबार्हस्पत्यंत्रैष्टुभं अनर्वाणंबार्हस्पत्यमित्यनुक्रान्तम् श्रौत- विनियोगोलैङ्गिकः अत्रशौकः—स्नात्वाजपेदनर्वाणंनमस्कृत्यबृहस्पतिम् । वीरान् धनंचप्राप्नोतिसौ- श्लोक्यंचनियच्छतीति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११