मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ४

संहिता

अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।
मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥

पदपाठः

अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः ।
मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥

सायणभाष्यम्

अस्य बृहस्पतेः श्लोकः स्तुत्यात्मकाकीर्तिः गर्जितवाग्वा दिविद्योतमानेद्युलोकेपृथिव्यां चईयतेग- च्छति व्याप्नोति योबृहस्पतिरत्योनअतनशीलआदित्यइव यक्षभृत् पूजितंहविरादिकंदधानः विचेताः विविधंचेतयिता प्राणिनांविशिष्टप्रज्ञायुक्तोवायंसत् नियच्छतिफलं किञ्चमृगाणां हन्तुमम्विष्यतां हे- तयोनआयुधानीवास्यबृहस्पतेरिमाहेतयः हिंस्राण्यायुधानियन्तिगच्छन्तिच चवायोगेप्रथमेतिननि- घातः अहिमायान् आगत्यहंत्र्योऽन्तरिक्षचारिण्योवामायायेषांवृत्रादीनांतानसुरान् द्यून् दिवसान् कालाध्वनोरितिद्वितीया तान्यायुधान्यभिलक्षयन्तिच उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२