मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ६

संहिता

सु॒प्रैतु॑ः सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तु॒ः परि॑प्रीतो॒ न मि॒त्रः ।
अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥

पदपाठः

सु॒ऽप्रैतुः॑ । सु॒ऽयव॑सः । न । पन्थाः॑ । दुः॒ऽनि॒यन्तुः॑ । परि॑ऽप्रीतः । न । मि॒त्रः ।
अ॒न॒र्वाणः॑ । अ॒भि । ये । चक्ष॑ते । नः॒ । अपि॑ऽवृताः । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । अ॒स्थुः॒ ॥

सायणभाष्यम्

हेबृहस्पते त्वंसुप्रैतुः सुष्ठुगन्तुः मनुष्यस्यसुयवसः शोभनान्नस्य पन्थान मार्गइव सुष्ठुयज्ञभार्गगा- मिनोगमनेसुयवसः पन्थाइवसुखकारीभवेत्यर्थः किञ्च दुर्नियन्तुः दुःखेननियमितुः राज्ञः परिप्रीतः स- र्वप्रकारेणसंतुष्टः द्वेषादिरहितः मित्रोनसुहृन्मंत्रीव सयथादुर्नयान्निवर्तयतितद्वत् त्वमपितथास्मभ्यं- कुर्वित्यर्थः सखिवदमार्गान्निवर्त्यमार्गेयज्ञादिरूपेयोजयित्वातत्रापिफलप्रदोभवेत्यर्थः किञ्च अनर्वाणः अपापाः येनरानोस्मानभिआभिमुख्येनचक्षतेबोधयन्ति तेअपीवृताः अज्ञानेनावृताअपिअपोर्णुवन्तः अपगतावरणवन्तोज्ञानवन्तोऽस्थुः तिष्ठन्तु यद्वा अनर्वाणः त्वामप्राप्नुवन्तोयेस्मद्विरोधिनोस्मान् अ- भिचक्षते अभिवदन्तिनिन्दन्ति तेपीवृताः आच्छादितारक्षिताअपिअपोर्णुवन्तः अपगतरक्षणाभवन्ति ॥ ६ ॥ संयंस्तुभइत्येषाबार्हस्पत्येपशौपुरोडाशस्ययाज्या सूत्रितञ्च—संयंस्तुभोवनयोन्यन्त्येवापित्रइति ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३