मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९१, ऋक् २

संहिता

अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती ।
अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥

पदपाठः

अ॒दृष्टा॑न् । ह॒न्ति॒ । आ॒ऽय॒ती । अथो॒ इति॑ । ह॒न्ति॒ । प॒रा॒ऽय॒ती ।
अथो॒ इति॑ । अ॒व॒ऽघ्न॒ती । ह॒न्ति॒ । अथो॒ इति॑ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥

सायणभाष्यम्

अनेनविषघ्न्योषधिः स्तूयते आयतीविषदष्टस्यसकाशमागछन्ती विषनिर्हरणसाधनौषधिः अदृ- ष्टान् अदृश्यमानान् विषधरान् हन्तिहिनस्ति अथोअपिच परायतीपरागच्छन्ती संमार्जनसमये वा- क् प्रवृत्ताहन्तिनाशयतिजलचरविषधरान् अथोअपिच अवघ्नती कर्मणिकर्तृप्रत्ययः अवहन्यमानौष- धिः स्वगन्धेनहन्तिबहुविषान् यद्वा काचिदोषधिः दंशकान्मारयत्येव अथोअपिच पिंषतीपेषणंकर्त्री- दृषत् पिष्यमाणावौषधिः पिनष्टि चूर्णीकरोत्यल्पविषान् अथवासर्वेषुवाक्येष्वविशेषेणसर्वविषका- रिणांनाशउक्तः ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४